॥ श्रीः ॥
3.27. अध्यायः 027
Mahabharata - Vana Parva - Chapter Topics
भीमादिसनिधाने युधिष्ठिरंप्रति द्रौपद्याः सविषादवचनम् ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-27-0x(1850)(16646)
ततो वनगताः पार्थाः सायाह्ने सह कृष्णया।
उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः ॥ 3-27-1(16647)
प्रिया च दर्शनीया च पण्डिता च पतिव्रता।
अथ कृष्णा धर्मराजमिदं वचनमब्रवीत् ॥ 3-27-2(16648)
द्रौपद्युवाच। 3-27-3x(1851)
न नूनं तस्य पापस्य दुःखमस्मासु किंचन।
विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ॥ 3-27-3(16649)
यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम्।
वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ॥ 3-27-4(16650)
आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः।
यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा।
`वचनान्यपरोक्षाणि दुर्वाच्यानि च संसदि ॥' 3-27-5(16651)
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः।
ईदृशं दुःखमानीय मोदते पापपूरुषः ॥ 3-27-6(16652)
चतुर्णामेव पापानामस्रं न पतितं तदा।
त्वयि भारत निष्क्रान्ते वनायाजिनवाससि ॥ 3-27-7(16653)
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः।
दुर्भ्रातुस्तस्य चोग्रस्य राजन्दुःखशासनस्य च ॥ 3-27-8(16654)
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम।
दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ॥ 3-27-9(16655)
इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम्।
शोचामित्वां महाराजदुःखानर्हंसुखोचितम् ॥ 3-27-10(16656)
दान्तं यच्च सभामध्य आसनं रत्नभूषितम्।
दृष्ट्वा कुशबृशीं चेमां शोको मां दारयत्ययम् ॥ 3-27-11(16657)
यदपश्यं सभायां त्वां राजभिः परिवारितम्।
तच्च राजन्नपश्यन्त्याः का सान्तिर्हृदयस्यमे ॥ 3-27-12(16658)
या त्वाऽह्रं चन्दनादिग्धमपश्यं सूर्यवर्चसम्।
सा त्वां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ॥ 3-27-13(16659)
या त्वाऽहं कौशिकैर्वस्त्रैः शुभ्रैराच्छादितं पुरा।
दृष्टवत्यस्मिराजेनद्र साऽद्य पश्यामि चीरिणम् ॥ 3-27-14(16660)
यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः।
ह्रियते ते गृहादन्नं संस्कृतंसार्वकामिकम् ॥ 3-27-15(16661)
यतीनामगृहाणां ते तथैव गृहमेधिनाम्।
दीयते भोजनं राजन्नतीव गुणवत्प्रभो ॥ 3-27-16(16662)
सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे।
सर्वकामैः सुविहितैर्यदपूजयथा द्विजान्।
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥ 3-27-17(16663)
यत्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः।
अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ॥ 3-27-18(16664)
सर्वांस्तानद्य पश्यामि वने वन्येन जीविनः।
अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ॥ 3-27-19(16665)
भीमसेनमिमं चापि दुःखितं वनवासिनम्।
ध्यायतः किं न मन्युस्ते प्राप्ते काले विवर्धते ॥ 3-27-20(16666)
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युतम्।
सुखार्हं दुःखितं दृष्ट्वा कस्माद्राजन्नुपेक्षसे ॥ 3-27-21(16667)
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा।
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 3-27-22(16668)
अयं कुरून्रणे सर्वान्हन्तुमुत्सहते प्रभुः।
त्वत्प्रतिज्ञां प्रतीक्षंस्तु सहतेऽयं वृकोदरः ॥ 3-27-23(16669)
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना।
शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः ॥ 3-27-24(16670)
यस् शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः।
यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ॥ 3-27-25(16671)
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः।
ध्यायन्तमर्जुनं दृष्ट्वा कस्माद्राजन्न कुप्यसि ॥ 3-27-26(16672)
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्।
न च तेवर्धते मन्युस्तेन मुह्यामि भारत ॥ 3-27-27(16673)
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्।
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 3-27-28(16674)
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः।
प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतप ॥ 3-27-29(16675)
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः।
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 3-27-30(16676)
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे।
नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 3-27-31(16677)
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर। 3-27-32bसहदेवं वने दृष्ट्वा कस्मात्क्षमसि पार्थिव ॥ 3-27-32(16678)
नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ।
अदुःखार्हौ मनुष्येन्द्र कस्मान्मन्युर्न वर्धते ॥ 3-27-33(16679)
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः।
धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम्।
मां वै वनगतां दृष्ट्वा कस्मात्क्षमसि पार्थिव ॥ 3-27-34(16680)
नूनं च तव नैवास्ति मन्युर्भरतसत्तम।
यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा नव्यथते मनः ॥ 3-27-35(16681)
न निर्मन्युःक्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्।
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् ॥ 3-27-36(16682)
यो न दर्शयते तेजः क्षत्रियः काल आगते।
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत ॥ 3-27-37(16683)
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचन।
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः ॥ 3-27-38(16684)
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति।
अप्रियः सर्वभूतानां सोमुत्रेह च नश्यति ॥ 3-27-39(16685)